________________
सप्तममा ह्निकम्
351 अस्त्येव हृदयदेशे तदतिशय इति चेत्-न-अनुपलम्भात्। दहनहिमकृपाणादिस्पर्शेषु न हृदयस्य, प्रदेशान्तरस्य वा शरीरे वेदनाविशेष पश्यामः। तस्मान्न हृत्पुण्डरीके 'दीप'वदवस्थानमात्मनः ॥
[ आत्मनोऽविभुत्वपरवचनगतिः] अत एव- 'अङगुष्ठमात्रं पुरुषं निश्चकर्ष 'यमो बलात् इति व्यासवचनमनेवंपर मवगन्तव्यम् ॥
यदि तु मनोवदेकदेशवृत्तेरणुपरिमाणस्याशु संचरतः शरीराधिष्ठातृ. त्वमात्मनः कथ्यते-तथापि सहसैव चिरप्रोषि तागतदयितजनदर्शनो द्भ तसकलशरीरध्यापिस्वेदरोमांचादिदर्शनं विरुध्यते। न च द्वयोरण्वोरात्म. मनसोः कर्तृकरणव्यवस्थाऽपि निर्वहत्तीति । तस्मानाणुरात्मा, न च शरीरमात्र परिमाण इति व्यापक एवावशिष्यते। तदेवं वाराणस्या मपि अयमात्मा विद्यत एवेति तत्र तत्कार्यदर्शनमवकल्पते, नान्येन गमनाप्रिकारेणेति ॥
[ ऐकात्म्यवादनिरासः] ननु ! सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात् सर्वप्राणिनामेक एवात्म भवेत्-न-सुखदुःखव्यवस्थादर्शनात्, बन्धमुक्त व्यवस्थोपपत्तेश्चात्मभेदस्य दर्शयिष्यमाणत्वात् ॥
___ * औपाधिकपरिमितत्वपरमित्यर्थः। अन्यथा परमात्मनोऽपि तथाश्रवणात् विभुत्वं न स्यात् ॥
___1 या-ख, 2 बलाद्यमः-ख, . र-ख. विभागो-ख,
तगता-ख,
-ख,