________________
350
न्यायमञ्जरी [आत्मनः विभुत्वेऽपि शरीरान्तरप्राप्त्यादि युज्यते · शरीरान्तरसंचारस्त्वस्य नास्तीति यदुक्तं तद्युक्तमेव। व्यापिनः सर्वत्र विद्यमानस्यात्मनः कः संचारार्थः ?
व्यापित्व एव किं प्रमाणमिति चेत्-सर्वत्रैव कार्योपलम्भः प्रमाणम् । इतो वाराणसीमपि गतस्य मे भवत्येव स्मरणेच्छादिकार्ययोगः। स चात्मकप्रभवः। आत्मनश्च शरीरस्येव न तत्र गमनम्, अमूर्तत्वात् । न शरीरगुणवत्, *तदनाश्रितत्वात् । न प्राणादिवत् , अन्तश्शरीरवृत्तित्वाभावात् ॥
[आत्मनः न शरीरान्तर्वतित्वम् ] अन्तश्शरीरवृत्तित्वाभाव एव किं प्रमाणमिति चेत्-उच्यते-अन्तश्शरीरवृत्तित्वे हि द्वयो गतीः, एकदेशवृत्तित्वं, सर्वशरीरापूरकत्वं' वा ॥
तत्र सर्वशरीरापूरकत्वे शरीरपरिमाणानुविधायित्वात् बालयुव. स्थाविरशरीरवत् पूर्वनीत्या परिमाणान्यत्वेन तदन्यत्वात् पुनरपि प्रति. सन्धानादिकार्यवैधुर्यप्रसङगः। करिमशकशरीरयोगे च कर्मपरिणामो. पनते तस्य संकोचविकासौ प्राप्नुतः । तौ च नित्यस्य विरुध्यते ॥
एकदेशवृत्तित्वे तु तदनधिष्ठिातानामवयवानामनात्मकत्वात् मृतशरीरावयवत् अयथेष्टविनियोज्यता-"काष्ठी भावः स्यात् ॥
_ [आत्मनो न स्त्रज्ञानेन सर्वशरीरव्यापकत्वं ] प्रदोपवदे कदे शवृत्तेरप्यात्मनः सकलशरीराधिष्ठातृत्वमिति चेत्वर्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशेषचैतन्यसंवित्तिः स्यात्॥
* तत्-शरीरम् ॥
1 रमापूर्य-ख,
षय-ख,
कष्टी-ख,
तद्दे-खे.