________________
सप्तममाह्निकम्
349 कृत्वा समर्थितोऽयमर्थः । न च विनाशहेतुः प्रमा'तुरति चिरमपि विचार्यमाणः कश्चित् कुतश्चित् अवाप्यते । न चानुपलभ्यमानोऽप्यसौ कल्पयितुं पार्यते ॥
[ आत्मनो विनाश हेतुर्नास्ति ]
__न ह्यात्मा पटदिरिव सावयव उपलभ्यते, यदवयवविभागादिना नक्ष्यतीसि गम्यते। उत्पत्ति रपि ना त्मनो दृष्टा, यतस्तद विना• भाविनः निरवयवस्थापि कर्मादेरिव विनाशः प्रतीयते। न चैष कस्ययिदात्मागुणः, यैनाश्रयविनाशाद्वा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमा
सादयेत् ॥ .
न चैवं शक्यते वक्तुम-कि विनाशहेत्वनमानेन ? प्रत्यक्ष एवास्य विनाशो दृश्यत इति । यतो न शरीरवदसौ दह्यमानः, शकुनिभि*रव. लुप्यमानो वा कदाचिदुलब्ध इति। तस्माद्विनाशादर्शनात् विनाशहेत्वनमानासंभवाच्च अस्ति चेदात्मा नित्य एवेत्यवधार्यताम् ॥
तस्मात् भूतचैतन्यमेव चिरन्तनचार्वाकाचार्यवत् परलोकापलापपरितोषालम्बनयत्किचित्कारित्वसुलभसुखा सिकास क्तहृदयैर्वरमाश्रितुम्। आशरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः। भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव। तस्मादस्ति नित्यः परलोकी प्रमातेति ॥
नित्यत्वे सति पूर्वदेहसंबन्धः, भविष्यदेहान्तरसंबन्धश्चास्य ने दुरुपपादः ॥
* शकुनिः-मांसादनः गृघ्रादिः॥
तरि-ख,
2 र्नामा-ख.
स-च.