SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 348 न्यायमञ्जरी . [अर्वाचीनचार्वाकमतम् ] अत्र सुशिक्षितचार्वाक आह—यावच्छारीरमवस्थितमेकं प्रमातृतत्त्वं अनुसन्धानादिव्यवहारसमर्थमस्तु नाम, कस्तत्र कलहायते। शरीरावं तु तदस्तीति किमत्र प्रमाणम् ? न च पूर्वशरीरमपहाय शरीरान्तरं संक्रमति प्रमाता ॥ [पारलौकिकात्मा नास्ति] यदि ह्येवं भवेत् , तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवत अतीतजन्मानुभूतपदार्थस्मरणमपि तस्य भवेत्। न हि तस्य नित्यत्वाविशेषे च, शरीरभेदाविशेषे च स्मरणविशेष कारणविशेषमुत्पश्यामः, यदिह जन्मन्येवानुभूतं स्मरति, नान्यजन्मानुभूतमिति। तस्मादूर्व देहात् नास्त्येव प्रमातेति नित्यात्मवादमूलपरलोककथा'कौरुकुची' मपास्य यथासुखमास्यताम् ॥ यथाऽऽह यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ इति ॥ [आत्मनः स्थिरत्वस्यौत्सर्गिकत्वम् ] अत्रोच्यते-न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकांचार्यचातुर्यम्। यावच्छरीरमेकम नुया'यि प्रमातृतत्त्वमस्तीति यदुक्तवानसि तन्न विस्मर्तुमर्हसि* । न चास्तित्वाविनाभावी भावानां विनाशः स्वाभाविकः, किन्तु हेत्वन्तरनिमित्तक इति सौगतैस्सह कलहमतिमात्रमधनव * यावच्छरीरमवस्थितिरङ्गीकृता चेत् , तेनैव न्यायेन निस्यत्वमिति भवेदेव ।। 1 कुरुकुओं-ख, वेत्-ज, 3 शान्तस्य-ख, नपा-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy