________________
347
सप्तममाटिकम्
[ आत्मनः स्थिरत्वज्ञानेन लाभः ] - ननु *विमृशति भोगे कर्म नित्योऽपि नात्मा
न हि नरकनिमग्नो मन्यते कश्चिदेवम् । किल यद हमकार्ष प्राग्भवे कर्म पापं
फलमुपनतमस्माद्भुज्यते तन्मयेति ।। कार्योपभोगसमये किमनेनों कृत्यं
नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् । यस्स्वप्रवृत्तिजननौपयिकोऽवमर्शः . शास्त्रादसौ भवति शास्त्रविदामवश्यम् ।। विमर्शोऽयं पश्चादपि भवतु दृष्टे तु विषये ___मया यूना यत्तत्किमपि सदसद्वा कृतमभूत् ।
ततो वृद्धीऽद्याहं फलमनभवामीति तदयं । - पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः ।।
[क्षणिकवादिना क्रियावैरूप्यम् ] नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं ___ संस्काराः क्षणिकाः युगस्थितिभतश्चैते विहाराः कृताः। सर्व शून्यमिदं वसूनि गुरवे देहीति चादिश्यते बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा ॥
- * नित्योऽप्यात्मा सुखदुःखभोगे तद्धेतुभूतं कर्म न हि विमृशति। अतः की लाभ इत्याक्षेपः। विमृशस्येव, कार्यसामान्यस्य सहेतुकत्वज्ञानादिति समाधानम् ॥
+ अनेन-पूर्वोक्तज्ञानेन | कार्यस्य निरोद्धुमशक्यत्वादिति हेतुः। उत्तरस्वप्रवृत्तिशिक्षण भविष्यतीति न वैफल्यमिति सारम् ॥
य-ख,
ति-ख.