SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 355 सप्तममाह्निकम् ताम् , को दोषः ? तत्र तु जनयित्रीजठरपतितानपानपरिपाकसंक्रान्त्या तत्परिपोषमायुर्वेदविदो वदन्तीति कथं तत्र स्मतणादिकल्पना || कल्पनायां वा प्रथमं निषेकानन्तरमेव कललादिशुक्रशोणितविकारसंभवात् तद्दशास्वपि स्मरणकल्पनाप्रसङगः। न च तत्कल्पनायामपि काचिदस्माकं क्षतिः । अयं तु स्तन्याभिलाषेण कुचक्षीरकलशावलोकनोपसर्पणादरो दारकस्य तदनुस्मरणकृत एवेति सर्वथा जन्मान्तरसंबन्धानुमानान्नित्योऽयमात्मेति ॥ . [ जन्मान्तरसमर्थकहेत्वन्तरम् ] अतश्चैवं-. . वीतरागजन्मादर्शनात् ॥३-१-२५॥ रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन 'अपरित्यज्यमानाः सरागा एव जन्तवो जायन्ते। न खलु लोके कश्चन तादशो दृश्यते प्राणी, यो जातो वीतरागश्चेति। स एष सरागो जायमानः पूर्वो. . पचिता रागादिवासनामनुसरतीति सिद्धो जन्मान्तरसंबन्धः ॥ [ जगद्वैचित्र्यहेतुतया कर्मपरंपरासिद्धिः ] तथा च केचिज्जजायन्ते लोभमात्रपरायणाः । द्रव्यसङग्रहणैकाग्रमनसो मूषकादयः ।। मनोभवमयाः केचित् सन्ति पारावतादयः । कुजत्प्रियतमाचंचुचुम्बनासक्तचेतसः ।। * जन्मान्तरसिद्ध रिति शेषः॥ दख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy