________________
343
सप्तममाह्निकम्
क्षणभङगे निरस्ते च कार्यमाधारवध्रुवम् । अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् ।। सुखादेरपि कार्यस्य विज्ञानाद्व्यतिरिक्तता । प्रागुक्तेति तदप्यन्यद्भवत्यस्यानुमापकम् ||
__ [क्षणिकवादे पारलौकिकविलोपः ] किंच नांगीकरोषि त्वमात्मानं पारलोकिनम् । उपैषि परलोकं च विदितं ते बकवतम् ।। कर्मसन्तानिनाऽन्येन यत्कृतं चैत्यवन्दनम् । ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा ।। न च तिवृत्तिरप्यस्य चैत्ववन्दनकर्मणा' । ज्ञानक्षणेन नैकेन किंचित् कर्म समाप्यते ॥ कार्यकारणभावाश्च यस्त्वयोक्तः स दूषितः। कार्यकारणभावेऽपि न ह्यन्यत्वं निवर्तते । अनैकान्तिकता चास्य सन्मानान्तरबुद्धिभिः। उपादानत्वरूपोऽपि विशेषः प्राङनिराकृतः ॥ कापसिरागसंक्रांन्तिदृष्टान्तो यश्च वर्णितः । सोऽप्ययुक्तः स्वरूपेण तत्रतस्यैव दर्शनात् ॥ य एव रागः कार्पासबोजे समुपकल्पितः । स एव दृश्यते पुष्पे न तु तस्मात्फलान्तरम् ॥ *एवं कर्मानुवृत्तिः स्यात् फलभोगस्तु दुर्घटः ॥
* कथञ्चित्कर्मांनुवृत्तावपि सुखदुःखानुभवस्यान्तिमक्षण एव संभवेन, अन्यः कर्ता, अन्यो भोक्ता इत्यनिवार्यमेव ॥
___ 1 पारलौकिकम्-ख.
2 णः-च,
तत्त्वं-क, न्तत्व-ख.