SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 342 भ्यायमञ्जरी पूर्वदृष्टस्य स्मरण, स्मृतस्य कस्य चित् प्रत्यभिज्ञानं, प्रत्यभिज्ञातस्य च गृहादेरेवार्धकृतस्य समापनं इत्यादयश्च व्यवहारा विलुप्येरन् । [क्षणिकवादनिराससंग्रहः ] अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् । न, तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥ अभेदपक्षे क्षणवत् व्यवहारो न सिध्यति । व्यतिरेके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा ॥ अवास्तवत्वे पूर्वोक्तं कार्य विघटते पुनः । वास्तवत्वे स्थिरो वा स्यात् क्षणिको वेति 'चिन्त्य'ताम् । सन्तानिनिविशेषः स्यात् सन्तानः क्षणभङगुरः । न सिध्यत्पुनरप्येवं व्यवहारः पुरोदितः* || .. अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । उत्तिष्ठ, भिक्षो! फलितास्तवाशाः सोऽयं समाप्तः क्षणभङगवादः ।। तदेवं सति सन्तानच्छद्मनो विनिवारणात् । . लोकयात्रा स्थिरैरेव पदार्थैरुप पाद्यताम् ॥ [क्षणिकवादे प्रमाणाभावः] एवमनन्तरनिगदितदूषणनिकुरम्बविनिहतप्रसरम्। नाध्यक्षं क्षणिकत्वे, न चानुमानं प्रमाणं स्यात् ॥ * अतश्च सन्तानिनः अंतिरिक्तत्वे, सत्यस्वे च स्थिरत्वसिद्धिः । अयमर्थ समनन्तरश्लोके स्पष्टः॥ 1 कथ्य-च. प-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy