________________
341
सप्तममाह्निकम्
[धंसस्य हेतुजन्यत्वाद्वस्तुस्थैर्य सिद्धिः] एवंच स्थिते न स्वरूपमात्र निबन्धन एव भावानां विनाशः, किंतु हेत्वन्तरनिबन्धनो भवति। ततश्च आविनाशहेतूपनिपातात् अवस्थानमेव भावानाम्। अविद्यमान विनाशकारणानां च नित्यत्वमेव व्योमादीनामिति सिद्धम् ॥
[सत्त्वासत्त्वयोदर्शनादर्शगरूपत्वाभावः ] . यत्पुनरभाणि-दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति–तदपि व्यामूढभाषितम्। दर्शनादर्शनाभ्यां भावाभावयोः परिच्छेदः, न पुनः दर्शनादर्शने एव भावाभावौ ॥
अभावश्च विस्तरतः प्राक् प्रसाधितः । स च सहेतुक इति न स्वत एव विशरारवो भावाः ॥
- [क्षणिकवादे व्यवहारानुपपत्तिः ] - एवं त्वनिष्य'माणे पदार्थस्थैर्यपक्षे–ज्ञानजनकस्य नियतस्य वस्तुनो दर्शनम् , दर्शनविषयीकृतेऽस्य प्रवृत्तिः, प्रवृत्तिविषयोकृतस्य प्राप्तिरिति व्यवहारो न स्यात्, अर्थक्षणनानात्वात् ॥
- [क्षणिकवादे बाध्यबाधकभावानुपपत्तिः ] बाध्यबाधकभावश्च क्वचित् ज्ञानानां दृष्टः। स च न स्यात; पूर्वावगतरजतादिविषयाभावग्राहिणो ज्ञानस्य गृहीतमुद्गरदलित श्वघटा भावज्ञानवत् बाधकत्वानुपपत्तेः ॥
* विनाशकारणानि-असमवायिकारणनाशादीनि ॥
_1 मेव-ख, घ-ख.
वि-ख,
३ दण्डा-ख.
तु निष्प्र-ख,