________________
340
न्यायमञ्जरी . [ज्ञानस्यास्थिरत्वेऽपि वस्तुस्थैर्योपपत्तिः]
ननु ! भवद्भिरपि न स्थिरं ज्ञानमिष्यते। क्षीणे च ज्ञाने सोऽर्थों द्वितीयक्षणे केन गृह्येत? ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को निश्चयः ?
अनिमेषदृष्टेनिं न क्षीयत एवेत्येके ॥
अथवा कि न एतेन । न हि विषयप्रतिभासकाले ज्ञानमवभासत* . इति असकृदुक्तं, वक्ष्यते च। तेन तत्कीदशमिति कुतो वयं विद्मः । अर्थस्त्वविच्छिन्नसत्ताक एव गृह्यते। ज्ञानं तु वर्तमानकालमप्यतीता.. नागतकालग्राहि भवति ; स्मरणमिव, भूतभविष्यवृष्टयनुमानमिव । .
[ इन्द्रियस्य, सन्निकर्षस्य, अर्थस्य च स्थिरत्वम् ] ननु ! इन्द्रियव्यापारो न क्षणान्तरस्थायीति तस्मिन्नसति कुतोऽ. र्थस्य विततका लता ग्रहणम् ?
भदन्त !' भवतु, श्रान्तोऽसि । लज्जस्वैवंब्रुवाणः । निमेषकृतोऽपि विच्छेदोऽस्य नास्ति। अथ च न स्थिरः इन्द्रियव्यापार इति "ग्राहिकतामात्रम्। सन्निकर्षश्चास्य विषयग्रहणे व्यापारः। स च स्थिर एव । तस्माद्विततकालस्य वस्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम् ॥
* ज्ञान तु अनुष्यवसायेन मानसेन गृह्यते।
सः-विषयः । इदमत्र तत्त्वम्-काल: अतीन्द्रियः, नित्यः, व्याप. कश्च । परन्तु उपाधिवशात्तत्तद्व्यवहारः। उपाधीनां घटादीनां प्रत्यक्षत्वात् प्रत्यक्ष. स्वेन व्यवहारः। जन्यमानत्य कालोपाधित्वात्, घटः यावत्कालं वर्तते, तावान् एकः घटकाल इत्युच्यते । क्षणोपाधिदृष्टया घटस्य नानाकालसंबन्धेऽपि घटस्य स्वकाल. दृष्टया न नानाकालसंबन्धः, किन्तु एक एव स काल इति न कश्चन विरोधः॥
ल-ख,
___ 1 ने-च, म-ख,
1 स्य-ख, साहसि-ख.
तदलं-ख,