________________
339
सप्तममाह्निकम्
[वर्तमानकालस्य न क्षणरूपत्वम् ] ननु ! तावानसौं काल: क्षणसमुदायो भवति, न क्षणः। क्षणश्चैक एव वर्तमानो भवति । अतः पूर्वापरौ क्षणावतीतानागतौ भवतः। तयोश्च न ग्रहणमित्युक्तम् ॥ . भो महात्मन् ! सिद्ध क्षणकत्व एव एवं शक्यते वक्तुम् , न तत्साधनावसरे। कालो ह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम् । न तु क्षणसमुदायात्मा कालः। कालस्य तु भेदाः क्रियोपजननविनाशाधुपाधिनिवन्धनाः कल्प्यन्त इत्यपि तत्रैव परीक्षितम् । तदयमनिमेषदृष्ट:* दर्शन विच्छेिदानुपग्रहात् तावानेकः कालः स इति वर्तवान एव भवति। नानाक्षणसमुदायः। क्षणसमुदायात्मकेऽपि वा काले दर्शनविच्छेदानवधारणात् क्षणसमुदाय एव वर्तमानी भवतु ||
· [ कालस्याप्रामाणिकत्वेऽपि न क्षणिकत्वसिद्धिः ] ननु ! कालो नाम न कश्चित् पारमार्थिकः पदार्थ एव परिदृश्यमानः वर्तमानादिव्यवहारहेतुः । स च न चिरमनुभूयत इति क्षणिक उच्यते__ भिक्षो ! अलमवान्तरगमनेन । मा भूत कालः । पदार्थस्त्वनिमेषदृष्टयविच्छेदान्न नश्यन् दृश्यत इति न क्षणिकग्नाहि प्रत्यक्षम् ॥
* अनिमेषदृष्टि:-परमात्मा ॥
+ तत्तद्वस्तुदृष्व्येति शेषः। तावन्निमेषाः दिनानि वा यत् एवं वर्तते, तावनेक एव सः कालस्तस्य भवति ॥
1 स वर्तमान एव-ख.
दवच्छिन्न पत्ताक एव-ख.