SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 338 न्यायमञ्जरी . [अतीतकालग्रहणेऽप्युत्पत्तेरग्रहणम् ] न चातीतानागतजन्मग्रहणमाशङकनीयम् , इयति कारणसामर्थ्यनियमात् । न ह्यतीतानागतजन्मग्रहणमशक्यक्रियमिति यदपि दृश्यमानं ग्रहणं, तदप्यपह्नोतुं युक्तम् ॥ . न चैतावताऽतीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामान्यतोदृष्टेन अदृष्टमप्यतीतानागतज्ञानं कल्प्यम्। यथादर्शनं हि वस्तूनि व्यवस्थाप्यन्ते, न तु किंचिदृष्ट्वाऽन्यदपि कल्प्यते, दृष्टमपि वा नियते इति ॥ [वस्तूनां स्थिरत्वं प्रत्यभिज्ञाग्राह्यम् ] अपि च अनिमेषदृष्टेररितसताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुपपद्यते । तत् कथं क्षणिकग्राहि कथ्यते ॥ यच्च तत्र विकल्पितं-अतीतानागतक्षणयोः असन्निहितत्वेन प्रत्यक्ष ग्राह्यताऽनुपपत्तेः वर्तमानक्षणस्य चातिसूक्ष्मत्वात् तत्कालग्राहिणा प्रत्यक्षेण क्षणिकत्वमेव गृहीतं भवतीति-तदुपपन्नग*-मा नामाभूदतोतानागतकालग्रहणं, वर्तवान एव तु तत्रानिमेषदर्शने कियान काल इति चिन्त्यताम्। निमेषकृतस्यापि दर्शनविच्छेदस्यानवकाशात् । यावद्धि दर्शनं न विच्छिन्नं, तावान् वर्तमानः काल इति तद्ग्रहणेन स्थैर्य गृहीतं भवति, न क्षणिकत्वम् ॥ * कालस्यातीन्द्रियत्वेन अंशतस्सत्यत्वात् ॥ 1 याव-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy