SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ 337 सप्तममाह्निकम् [ घटादीनां स्थिरत्वम् ] यदि लब्धस्वरूपोऽपि न नष्टः प्रयमे क्षणे । हेत्वन्तराद्विनाशोऽस्य न स्वरूपनिबन्धनः* || . विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते । चिरन्तनमतिः काचित् काचित्तत्कालजा मतिः॥ सलिलाहरणव्यग्रकुम्भावगतिरन्यथा । तथैव कन्दकाकृष्टकुम्भावगतिरन्यथा ॥ · . [रविगुप्तपक्षनिरासः ] एतेन रविगुप्तोऽपि परिम्लानमुखः कृतः । .. क्षणिकत्वक्षमा'ध्यक्ष समुत्प्रेक्षगपण्डितः॥ तथा हि-वर्तमानवस्तु विग्रहग्राहिविज्ञानं अनन्तरोक्तनयेन स्वजन कार्थप्रतिभासनात् विक्षणस्थायितामर्थस्य गमयतीत्युक्तम् । आद्यं च किंचिद्विज्ञानं अनागतकालस्पशिः भवति। यथाऽऽह भट्टः. 'रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते' इति। उत्तरमपि प्रत्यभिज्ञानं अतीतकालावच्छिन्नमर्थमवद्योतयतीति दर्शितम् ॥ * अन्ततः ज्ञानस्य द्विक्षणावस्थानमावश्मकमित्युक्तम् । घटादौ तु वैलक्षण्यात् स्थिस्यस्य सिद्धिः।। +विग्रहः-स्वरूपम् ॥ न हि समनन्तरे क्षणे सर्व नक्ष्यतीति कस्यापि प्रतीतिः ॥ 1 दित्व-ख. प्र-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy