SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 336 . न्यायमञ्जरी [अनुमानेन प्रत्यक्षबाधेऽपि नात्र तद्युक्तम् ] यद्यपि नैष नियमः-प्रत्यक्षानुमानयोविरोधे प्रत्यक्षं बलीय इति, त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्य अनुमानबाध्यत्वदर्शनादिति–तथापि प्रकृतं क्षणिकत्वानुमानं अन्यथासिद्धं, अनन्यथासिद्धं तु प्रत्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकम् ॥ न चेतरेतराश्रयत्वम्, अनुमानमिथ्यात्वनिबन्धनप्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्युपगमात्। स्वहेतुबलवत्तयैव प्रत्यभिज्ञाप्रत्यक्ष प्रमाणम् । न- तस्येदं दैन्यम् , यदनुमानमिथ्यात्वे सति *तत्प्रमाणी. भविष्यतीति ॥ [ज्ञानस्य क्षणिकत्वासंभवः] आस्तां वा प्रत्यभिज्ञानं, य एष प्रथमाक्षजः ।, स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङिगता || तुल्यसामग्रयधीनत्वस्य निराकृतत्वात, निराकारत्वस्य निराकरिष्यमाणत्वात् , अन्वयव्यतिरेकोपकृतमानसप्रत्यक्षनिश्चितजनकत्वस्य चार्थस्यावभास्यत्वनिश्चयात, उत्पन्नोऽर्थो ज्ञानं जनयति, जातेन च तेन ज्ञानेनगृह्यत इति बलात् द्विवक्षणावस्थायित्वम स्या'पद्यत इति कुतः क्षणिकत्वम् ? * अनुमानमिथ्यात्वाधीनं न प्रत्यक्षप्रामाण्यम्, किन्तु रूकारणादेव ॥ 'भयं घटः' इति खलु निषयाभिमुखोऽनुभवः। स च पूर्व विषयस्य ज्ञानाभिमुखत्वकृतः। विषयस्य ज्ञानाभिमुख्यमेव विषयीकरणम् । अतः अन्ततः क्षणद्वयावस्थानं ज्ञानानामावश्यकम् ॥ 1 था-ख, न-ख, स्यो-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy