SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सप्तममाहिकम् 335 चान्तःकरणेऽभ्युपगम्यमाने सति नान्धाद्यभावप्रसङग* इति बहुशः कथितम् ॥ ननु ! कुन्दादेविशेषणं वर्तमानमस्ति सौरभम्। इह त्वतीतं पूर्व. विज्ञानमिति कथं विशेषण'म ? -उक्तमात्र । किं तेन सता करिष्यसि ? शतादिबुद्धिष्वतिक्रान्तस्यापि कपित्थादेः कारणत्वदर्शनादिति॥ . तदेवमन्तःकरणजन्मनाऽपि प्रत्यभिज्ञानेन स्थैर्यमवस्थाप्यत एवं भावानाम् ॥ [ वस्तुस्र्यवादः ] या तु मुण्डितकेशादिप्रत्यभिज्ञानतुल्यता। स्तम्भादिप्रत्यभिज्ञायाः कथ्यते साऽप्यसङगता ॥ तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकम् । इह तु न किंचिदस्ति॥ अत एव शब्दे "त देव स्फुरन्त्या विनाशबुद्धया वैधुर्यमुपनीता .प्रत्यभिज्ञा स्थास्नुतामुपस्थापयितुम समर्थत्युक्तम् ॥ : ज्वालादावपि तैलवतिक्षयाद्यनुमानबाधितत्वात् भ्रान्ता प्रत्यभिज्ञा, . न तु तथा स्तम्भादावनुमानमपि बाधकमस्ति । सत्त्वानुमानं तु निरस्तमेव ।। __* मनसः बाह्ये विषयेऽप्रवृत्त्येति हेतुः। मनः बाह्ये नैव प्रवर्तत इति न । ' स्वातन्त्र्येण न प्रवर्तते इत्येव ॥ लूनपुनर्जातकेशादीत्यर्थः॥ *प्रत्यभिज्ञा-'स एवायं गकारः' इत्यादीति शेषः ॥ 1 मख. स-ख, 'तु न तामव-ख, तु-खं, .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy