________________
334
न्यायमञ्जरी __उक्त एवेन्द्रियस्यातीतग्रहणविषये सामर्थ्य विरहः। वत्स ! 'न सम्यगुक्तवानसि। नायमिन्द्रियस्य तिमिरादिरिव दोषः। अतीते काले स्वतन्त्रे त स्या सामर्थ्यम्, न तद्ग्राह्यवर्तमानवस्तुविशेषणीभूते । संस्कारसचिवस्य चास्य सामर्थ्यम्, न केवलस्येत्युक्तम्। तस्मादतीतकालविशेषित पुरोतिवर्तमान स्तम्भादिपदार्थविषयमिन्द्रियार्थसन्निकर्षोत्पन्नमेवेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम् ॥
[प्रत्यभिज्ञाया मानसत्वं वा] अथवा पूर्वविज्ञा'नविशिष्ट ग्राहि मानसम् ।
इष्यतां प्रत्यभिज्ञानं *गन्धवत्कुन्दबुद्धिवत् ॥ यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तदविषयगन्धविशेषिते बाह्यन्द्रियद्वारकं ग्रहणमघटमानमिति मानसमेव सुरभि कुसुममिति ज्ञानं, एवं पूर्वविज्ञानविशेषितस्य स्तम्भादेविशेषणमतीतक्षणविषयं इति मानसी प्रत्यभिज्ञा । पूर्वप्रवृत्तबाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयग्राहिणि
* इदमत्र तत्त्वम्-लौकिकसन्निकर्षद्वयजन्यमेकं ज्ञानमिव, संरकार-इन्द्रि यजन्यं 'सुरभि कुसुमम्' इत्यादिज्ञानमपि सर्वसंमतम् । कुसुमं तु चाक्षुषम्, सौरभ तु घ्राणग्राह्यम् । इन्द्रिय द्वयं तु युगपन्न प्रसरति। संस्कारस्य इन्द्रियसहकारित्वात् निरंशत्वाच्च प्रत्यभिज्ञायाः प्रत्यक्षमेव तत् । अथवा संस्कारजन्यस्मृत्युपस्थापित विशेषणं भासते। इयमेव ज्ञानलक्षणेत्युच्यते । तथा च लौकिका लौकिकसन्निकर्षद्वय जन्य ज्ञान प्रत्यभिज्ञेति न दोषः। ग्रन्थकारस्तु अलौकिकं सन्निकर्ष नाङ्गीकरोतीति मानसं तदिति वदति। मानसत्वे बाह्यत्वेनानुभवस्यास्वारस्यापत्त्या अनन्तर कालिकैः अलौकिकस्सन्निकर्षः अङ्गीक्रियत इति ज्ञेयम् ।।
स्य-ख.
' पूर्ववर्ति-ख,
वाभिमा-ख, .
___ 1 स-ख, • ग्राममाण-ख.