________________
सप्तममाह्निकम
333 [प्रत्यभिज्ञायां गतकालस्य विषयत्वम् ] ननु ! अतिक्रान्तग्राहि प्रत्यभिज्ञानं, इन्द्रियार्थसन्निकर्षजं चेति नः : कौतुकमिदम् । किं तत्कौतुकम् ? अर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येवं जनकः स्तम्भादिः॥
ननु ! अस्ति, स तु वर्तमानकाल एव–न केवलं, वर्तमानकालयोगिनाऽर्थेन तत्प्रत्ययजननात्, तस्य वर्तमान इवातीतोऽपि कालः अवच्छेदकता प्रतिपद्यते। स च तदवच्छिन्नोऽर्थः इदं च ज्ञानमादधातीत्यर्थजमेतत् इन्द्रियजमपि भवति, तद्भावाभावानुविधानात् ॥
. [अतीतविषयकस्यापीन्द्रियजन्यस्वम् ] ननु ! अतीतेऽर्थे कथमिन्द्रियं प्रवर्तते ?
कस्यैष पर्यनुयोगः ? नेन्द्रियस्य, अचेतनत्वात्। पुरुषस्तु अवि. फारिताक्षस्तु लभत इति सोऽप्यननुयोज्यः ॥
- [प्रत्यभिज्ञाया अबाधितत्वम् । ननु ! अतीतग्राहित्वात् अप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धः, 'नेन्द्रियस्यातीतेऽपि सामर्थ्य 'दृष्टपूर्व मिति-मैवम्-अप्रामाण्यं नाम बाधकप्रत्ययात् कल्प्यते, न चासावस्ति प्रत्यभिज्ञायाम्। अनुमानं तु "बाधकं प्रतिक्षिप्तम् ॥
[ प्रत्यभिज्ञाया अप्रामाण्ये हेतु स्ति] ननु ! कारणदोषादपि कल्प्यत एवाप्रामाण्यम् ॥
आयुष्मन् ! सोऽप्युच्यताम् ॥
* तथाचार्थजन्यत्वात्तस्य प्रत्यक्षत्वम् ।।
1 दृष्ट-ख,
ताव-ख, घः