________________
332
न्यायमञ्जरी अन्त्यसंख्येयसंवित्तिकाले प्रागवलोकिताः। यथा *शतादिज्ञानानि जनयन्ति 'पदात यः॥ अतीतकालसंसर्गो भवन्नेवं विशेषणम् । स्तम्भादिप्रत्यभिज्ञायाः कारणत्थं प्रपद्यते ॥
[अविद्यमानस्यापि विशेषणतया भानसंभवः] संख्येयाः "पदात यः सन्ति, अतीतकालस्तु नास्तीति चेत्-कपित्थेषु भक्ष्यमाणेषु किं वक्ष्यति देवानां प्रियः? शतं कपित्थानां भक्षितवान् वा ही क इति प्रतीतिदर्शनात् । न च नवनवतावनुपयुक्तेषु कपित्थेषु गएकत्रैव 'शतं मया भक्षितम्' इति मतिः। अतः यथा तत्रातिक्रान्तान्यपि नवनवतिकपित्थानि शतप्रतीतिहेतुतामुपयान्ति, प्रतिभासोपारूढत्वात् ; एवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञामाधास्यतीति |
[विकल्पानां प्रामाण्यम् ] . विकल्पमात्रं शतप्रत्यय इति चेत् , भो महात्मन् ! किं वा तव न विकल्पमात्रम्। किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः ॥
यश्च सामान्यसंसिद्धौ प्रकारः प्राक प्रदर्शितः ।
योज्यः स एव द्वित्वादिसंख्यासद्भावसिद्धये ॥ इत्यलं कथान्तराक्षे पेण || ..
* शतादिगणनवेलायां अन्तिममेव वस्तु इन्द्रियसन्निकृष्टम् । अथापि शतपदात्यादिज्ञानं प्रत्यक्षमेवेति सर्वे वदन्ति । तद्वदिहापि ॥
* एकत्रैव-हठात् एकक्षणे ॥
* अनेकव्यक्त्यनुगतसामान्यग्रहणन्यायेनैव, अनेककालानुगतव्यक्तेरपि ग्रहणमुपपादनीयमिति भावः ॥
1 घटाद-च, ' पदात-च, ह्री-ज, वत्रैकशततमे । शतमिति भवति-ख, क्षे-ख.