________________
सप्तममाह्निकम्
331
[ एकस्य कालद्वयसंबन्धो न विरुद्धः] ननु ! केयूरादीनां विरोधेऽपि तदाऽवस्थानादेकदेवदत्तसंबन्धित्वम् भ्युपपद्येतापि। भूतवर्तमानयोस्तु *युगपदसन्निधानात् 'कथं तद्विशिष्टता स्तम्भादेरुच्यते --प्रतीयते च द्वौ कालौ, न च सन्निहिताविति
चित्रम् ॥
- किं भूतोऽपि काल इदानीमस्ति-मैवम्-नासावस्तीत्युच्यते, अपि स्वासो दिति। अस्तीत्युच्यमानः वर्तमान एव स्यात्, न भूतः ॥
हन्त तहि भूतः भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते? भूतस्वेनैवेति ब्रूमः। भूतः कालो भूततयैव गृह्यते, वर्तमानोऽपि वर्तमानतयैव, अर्थस्तूभयानुगत एक एव, तथा ग्रहणात् ॥
[ भूतकालस्येदानीं भानसंभवः ] ननु भूतकालस्येदानीमभावात् तद्विषयं ज्ञानमनर्थजं स्यात्-नधर्मिणस्तदवच्छिन्नस्य ज्ञानजनक स्य भावात् । भूतः कथमवच्छेदक इति चेत् , तथा प्रतिभासात् । प्रतीतिमवमृशतु भवान् ‘स एवायम्' इति । यः पूर्वमासीत्, स इदानीमप्यस्तीति । सोऽयमतीतकालविशिष्टोऽर्थ एतस्यां बुद्धाववभासते ॥
[प्रत्यभिज्ञाया इन्द्रियजस्वम् ] - ननु । असता भूतकालेन विशेषितमर्थ कथमिन्द्रियजा प्रतीतिरालम्बनीकुर्यात् ? उच्यते
___ * यद्यपि सिद्धान्ते युगपत्सन्निधानं न; किन्त्वेकवस्तुनि । परन्तु क्षणिकवाद.
दृष्टयाऽयमाक्षेपः॥
1 त-ख,
३ द-ख,
स्या-ख.