SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 330 · न्यायमञ्जरी ___*क्वचित्तु केवलेन्द्रियव्यापारादपि-कार्यादर्शनान्न सर्वत्र तथाविधस्यैव तस्य कार्यकारित्वं, सहकार्यपेक्षेण कार्यान्तरजननात् ॥ [प्रत्यभिज्ञाविषयनिर्णयः ] यत्तु उक्तं–कोदृशोऽर्थः प्रत्यभिज्ञायामवभातीति-तत्रते वादिनः शतकृत्वो दत्तोत्तरा अपि यत्पुनरस्माननुयुंजते, तेन बलवदुद्विग्नाः स्मः । उक्तमत्र प्रमितयः प्रष्टव्याः, न तु वादिन इति। अतीतकालविशिष्टो वर्तमानकालावच्छिन्नश्चार्थ एतस्यामवभासते ॥ [ एकस्य कालद्वयसंबन्धः न विरुद्धः ] ननु पूर्वापरौ कालौ परस्परविरोधिनौ । नैकत्र विशतस्तेन तद्भदाद्वस्तु भिद्यते ।। नैतदेवम् – केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभदात् । अवयव्यस्ति, नास्तीति परीक्षणं वादान्तरगमनम्। . अपवर्गानिके च विस्तरेणावयवी साधयिष्यत इत्यास्तामेतत् ॥ . कुण्डलादीनामविरोधादिति चेत्-न-लाक्षणिकविरोधाभ्युपगमात । परस्पर परिहारव्यवस्थितात्मनो हि सर्वे भावा इति भणद्भिर्भवद्भिरभ्यु - पेयत एषां विरोधः ॥ ___* ननु तर्हि इन्द्रियजन्य सर्वमपि प्रत्यभिज्ञा स्यादिस्यत्राह - क्वचि. दित्यादि। + भूतभविष्यत्त्वयोस्तु विरोधः स्पष्टः॥ न हि कुण्डलविशिष्टवेषेण केयूरविशिष्टत्वं संभवति ॥ 1 व्यव-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy