________________
सप्तममाह्निकम्
329 विभागवती *सर्वतो जाज्वलीतीति कस्तस्य सत्यं क्षणभङगिनो भावा. नभिदध्यात्। यच्च किंचन 'तस्यामप'भाषितं-तत्सर्वमसमंजसम् ॥
[प्रत्यभिज्ञाप्रामाण्यम् ]. यत्तावदिदं विकल्पितं स एवायमिति किमेकं विज्ञानम् , उत द्वे? इति - तत्रोच्यते-सामानाधिकरण्ये नै कविषयावद्योतनाप्रवणकप्रतीतिसंवेदनात् केयं द्वित्वाशङका ? योऽयमयं सः, यः सः सोऽयमित्येकत्वा. वशिनी खल्वियमेका। स्वतस्तु याऽनेकप्रतीतिरनुभूयते घटोऽयमिति 'त'न निरन्तरोत्पन्नघटज्ञानपटस्मरणवत् भिन्नविषयं बुद्धिद्वयमिति ॥
.. [प्रत्यभिज्ञायाः प्रत्यक्षत्वम् ] यत्तु किमेकप्रतीतिजन्मनि करणमिति. कार्य चेदवगम्येत कि कारणपरीक्षया ।
- कार्य चेन्नावगम्येत कि कारणपरीक्षया॥ न च कार्यमकारकं भवितुमर्हति, कार्यत्वस्यैवानुपपत्तेः इति भवि. तव्यमेव तत्र कारणेन। अस्ति च संस्कारसहितर्माि द्रवमस्याः प्रतीतेः कारणं पृथक् । कार्यताऽपि तयोर्दर्शनादेव गभ्यते। तदिह सन्निहितयोरेककार्यजन्मनि व्यापारात तदपि किमिति नेष्यते। मृत्तन्तुकार्यमेकमदर्शनादेवान'भ्युपगतम्। इदं तु दृष्टत्वाद्दुरपह्नवम् ॥
. * सूर्यालोकरहितसमयेऽपि हि प्रत्यभिज्ञा भवति ।। + उच्यतां यत्किञ्चित्कारणम् , आवश्यकत्वात् ॥ * दर्शनं-अन्वयव्यतिरेकानुभवौ ॥
योऽयं समः यः
1 तस्य सम-ख, समो-ख. 'नी-ख,
क-च, 'व-घ,
न नै-ख. 'वा-ख..