________________
328
भ्यायमञ्जरी
तस्मादुत्पन्नमात्रस्य विनाशो नास्ति वस्तुनः । ' आविनाशकसद्भावादवस्थानमिति स्थितिः ।
[घटादीनां नित्यत्वापादनपरिहारः] नन ! सापेक्षाणां *भावानां नावश्यंभाविता भवेदिति घटस्य विनाशहेतुर्नोपनिपतेदपि कदाचित्-इत्येवमसौ कि नित्य एव भवत्विति -अहो ! महान प्रमादः, उत्सन्नाः प्रजाः, पतितो महान् वज्राशनिः, दुष्परिहरोऽयं दोष उत्थितः। यदि घटो नित्यो भवेत् , एष कालाग्निरुद्र इव त्रिभुवनमपि भस्मीकुर्यात् ॥
[घटादीनां सावयवस्वेन नाशावश्यंभावः ] अपि च, रे मूढ ! सावयवस्य, आश्रितस्य कार्यस्य च नूनमवयव. विभागात् - आश्रयविनाशाद्वा यदा कदाचिद्भवितव्यमेव विनाशेनेति कस्तन्नित्यत्वशङकावसरः ? तथा हि न रामाभिषेककलशमद्य यावदनु वर्तमानमीश्वरवेश्म'न्य'पि पश्यति लोक इत्यवश्यंभावी तस्य विनाश हेतुः। तस्मात् सहेतुको विनाश इति न स्वत एव विनश्वरा भावाः॥
[वस्तुस्थैर्य प्रत्यक्षसिद्धम् ] , __ अपि च प्रत्यज्ञिा स्वतेजोविभवविधत' बौद्ध सिद्धान्तध्वान्तसिद्धान्तसंततिरभङगुरमेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशत
* भावानां-पदार्थानाम् । परापेक्षत्वमेव हेतुः। यथा घटादिः दण्ड. चक्राद्यपेक्षः, कदाचित् सामग्रीवैकल्यान्न भवत्यपि, एवं ध्वंसोऽपि कदाचिन्न भवत्यपि । ततश्च एकोऽपि वा घटः नित्यः स्यादित्याक्षेपः॥
। इत्येव मित्यादि आशयोद्धाटनम् | उपहसति-अहो इत्यादि ।। __1 स्व-ख, 2 बोध ख, द्धिनिर्भ-ख.