________________
327
सप्तममाह्निकम्
[ध्वंसस्थानपेशत्वनिराकरणम् ] ' यदप्यभाणि नाशं प्रत्यनपेक्षत्वात् क्षणिकाः पदार्था इति–तदपि यत्किचित्-'दण्डा'दिव्यवहारान्वयव्यतिरेकामुविधायिनस्तत्कार्यस्य घटाधभावस्य विस्तरतः प्रमाणचिन्ताऽवसरे प्रसाधितत्वात् । प्रध्वंसाभावश्च विनाश इत्युच्यते ।।
नश्वरानश्वरत्वादिविकल्पास्तु न साधवः ।
सामग्रयधीनः प्रध्वंसः भावानामात्मलाभवत् । मुद्गरादिसामग्रया घटस्य किं क्रियते ? मृत्पिण्डादिसामग्रया किमस्य क्रियते? आत्मलाभ इति चेत्, अनयाऽप्यात्महानं करिष्यते ॥
[भावाभावयोरुभयोरपि हेत्वधीनत्वम् ]
ननु ! नश्वरश्चेत् तत्कारणमफलम् , अनश्वरत्वे त्वशक्तमितिउत्पत्तावपि तुल्योऽयं प्रलापः। भवनस्वभावश्चेत् घटः स्वत एव भवति, किं दण्डादि कारकसामग्रया? अभवनस्वभावस्तु कर्तुमशक्यः, खरविषाणवदिति ॥
कारकव्यापारकार्यत्वदर्शनात् अपर्यनुयोग एष इति चेत् , विनाशे च समः समाधिः, उत्पत्तिवत् विनाशस्यापि कारकान्वयव्यतिरेकानुविधायित्वात् ॥
* भावानां स्वरूपलाभः यथा सामग्र्यधीनः, तथैव तेषां स्वरूपच्युतिरपि सामग्र्यधीना ।।
* घटः इति शेषः। यदि घटः नश्वरस्वभाववान् तर्हि कारकवैयर्थ्यम् । अनश्वरत्वे कारकाणि तदुत्पादनसामर्थ्यशून्यानि भवेयुः॥
द्रुघणा-च, ज.
सा-ख,
त्वम्-ख.