SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 326 न्यायमञ्जरी [कारणाना प्रत्येकसामर्थप्रश्नोऽपि व्यर्थः] समर्थत्वासमर्थत्वविकल्पोऽपि न सङगतः। सामग्रया एव सामर्थ्य ततः कार्यस्य दर्शनात् ।। तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङगस्येव सामर्थ्य यावत्, तावदभ्युपगतमेव तदपेक्षस्य सामग्रयाः साधकतमत्वस्य निर्वहणात् । न हि भवति कृष्णाच्छुक्लतर* इति ।। अविकलं तु सामप्रथा एवं सामर्थ्य, यदनन्तरं कार्यनिष्पत्तिरिति कार्यनिष्पत्तिदर्शनादेवावगम्यते ॥ [कारकत्वं न क्षणिकम्] यदपि एकक्षणस्थायि कारकं स्यादित्युद्धोषितं परैः- तदप्यसत्कार्यनिष्पत्तिपर्यन्तत्वादवस्थानस्य । एकेन च क्षणैन' कार्यनिष्पत्तेर. घटमानत्वात् । कार्य निष्प तेरूध्वं तु सामग्री विप्लवते न समग्राणि तेषामेकैकशः क्वचित्क्वचिदुपलम्भात् चक्रसूत्रदण्डादीनाम्। इत्थं स्थिराणामेव पदार्थानां अर्थक्रियासामर्थ्य समथिसमिति न ततः क्षण. भङगसिद्धिः॥ एवंच 'सत्त्वनित्यत्वयोः विरोधात्-सत्त्वप्रतीत्यैव एकचन्द्रबुद्धिवत् तदितरनिराकरणमित्यादि यत् प्रलपितं तत् प्रतिक्षिप्तं भवति ।। * कृष्णात् कृष्णतरो भवती। प्रत्येकमल्पशक्तिरवेऽपि सामग्रीदशायां मिलिता शक्ततरा भवति सामग्री। * विप्लवते-रिक्तसामर्थ्या भवति। अन्ततः अदृष्टविशेषस्य गलितस्वात् ।। 1 प्र-ख, 'पक्षेण च तेषामेक-ख, ५ संप-ख, सत्य-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy