________________
सप्तममाह्निकम्
325 सर्वथा पर निष्पत्तौ निर्व्यापारं न कारणम् । सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ।। इथं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः । तेनासाधारणत्वेन यायात्संशयहेतुताम् ॥
- [सत्त्वं क्षणिकत्वविरुद्धस्यैव साधकम् ] . अथवा लब्धात्मनः पदार्थस्य परोत्पत्तौ व्याप्रियमाणत्वेन कार*क त्वावधारणात, द्वित्रक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति प्रत्युत सत्त्वादक्षणिकत्वसिद्धेः विरुद्धोऽयं हेतुः ॥
अतश्चैवं, नित्यानामेवार्थक्रियाकारित्वोपपत्तेः समवाय्यसमवायिनिमित्तभेदेन त्रिविधा कार्यकारणसामग्री परस्परसंसर्गमागत्य यथासन्निधानं कार्य प्रसत इति "कृतं क्रमयोगपद्यविकल्पस्तावकः। यदैवाविकलसंसर्गा' सामग्री तदैव कार्योत्पत्तिः ।।
.
[कार्याणां क्रमादेवोत्पत्तिः] *अत एव च कार्याणां युगपन्न समुद्भवः। न चापि कारणं नित्यं सामग्री न हि सर्वदा॥ प्राणि कर्मविपाकोऽपि सामग्यन्तर्गतोऽस्ति नः।
सर्वस्य सुखदुःखादिहेतोस्तदुपपादनात् ॥ न च समग्रव्यतिरेकाव्यतिरेकविकल्पः अस्मत्पक्षे सामग्री अपबा' धते; समग्रधर्मत्वात् सामग्रयाः! समनापेक्षया च सामग्रथा एव च • तमबर्थातिशययोगात् करणमिति प्रमाणसामान्यलक्षणे वणितमेतत् ।।
* अत एव–कार्यस्य सामग्रीमेलनाधीनत्वादेव ॥ * कर्मविपाकः-धर्माधौं कार्यसामान्यकारणभूतौ ॥
रि-च. ल-ख. 'बा-ख.
ण-ख,
३ का-ख,
कुतः-ज,