________________
324
न्यायमञ्जरी
. आनन्तर्यमात्रं न कारणत्वगमकम् ] अथ ब्रूयात्-इदं प्रतीत्य इदं प्रतीयते इति इदंप्रत्ययतामात्रमेव* कार्यकारणभाव इति–तथापि लब्धात्मनः क्षणस्य प्रतीतिरिति द्वितीय. क्षणावस्थानमपरिहार्यमेव ।।
न चानन्तर्यमात्रेण कार्यकारणग्रहः । "अहेतुफलभावेऽपि तथाऽनन्तर्यदर्शनात् ।। व्यापारस्तु परोत्पत्तौ नास्त्येव क्षणभङगिनः । न वर्तमानकालस्य न भूतस्य न भाविनः ।।
[ तुलादृष्टान्तवैरूप्यम् ] अथ मन्येथा यथा तुलान्तयो मोन्नामौ. भवतः, एवं पूर्वोत्तरयोः क्षणयोः नाशोत्पादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिवृत्तः इयतैव तौ कार्यकारणभावमश्नुवीयातामिति–एतदप्यमनोरमम्-न ह्ययमायु. मता 'सम्यग'वधृतस्तुलादृष्टान्तः ॥
तत्रान्यदेव हेमादि नामोन्नामनिबन्धनम् ।
"उन्नामो न तु ना मेन तेन वा स विधीयते ।। इह हि न पूर्वेण क्षणेन, नापि तद्विनाशेनोत्तरः क्षण उत्पद्यते । न. च हेमस्थानीयमिहान्यदस्तीत्यनुत्पाद एवावशिष्यते ॥
* पूर्वापरभावमानं कार्यकारणभावप्रयोजकम् ॥ + अन्यथासिद्धवस्तुषु इदं संमतम् ॥ * अन्यतरस्य नमनं अन्यतरस्योन्नमनहेतुः ।।
1 मस्त्यव-ख,
त-ख,
मव-ख,
शेषणो-ख.