________________
सप्तममाह्निकम्
323 कतिपयविशेषार्पणेन तु 'यधुपादानता', तदानी रूपमपि ज्ञानोपादान कारणतां प्रतिपद्येत। तस्मान्नोपादानकारणं नाम किंचित् । तन्निरासेन च तद्वलक्षण्यलक्ष्यमाणस्वरूपस्य सहकारिणोऽपि व्युदासो वेदितव्यः ॥
[ सहकार्यधीनत्वे स्थैर्य सिद्धिः] अपि च
प्रतिक्षिपसि म त्पक्षे सर्वथा सहकारिणम् । 'स्वयं चाङगीकरोषीति, भिक्षो! रागीव लक्ष्यसे || भिन्नाभिन्नोपकारादिविकल्पास्त्वत्प्रकल्पिताः । सहकारिप्रतिक्षेपकारिणः क्वाधुना गताः ? ॥ *आ! ज्ञातं युक्तिशक्त्यैषः युष्माभिरुपकल्पितः। दोषो न बाधते युष्मान मन्त्रोत्थापितसर्पवत् ।। .
क्षणिकावादे कार्यकरणभावासिद्धिः] अथवा-तिष्ठतु तावदुपादानसहकारिकारण विवेकः! कार्यकारणभाव एषः भदन्तसिद्धान्ते दुरुपपादः । परोत्पत्तावव्याप्रियमाणमेव यदि कारणमुच्यते सर्व सर्वस्य कारणं स्यात् ॥
न चालब्धात्मनस्तस्य व्यापारः परजन्मनि । लब्धात्मनस्तु व्यापारे स्थितिस्सिद्धा क्षणान्तरे ।।
* बौद्धानां मन्त्रदिसिद्ध पहासोऽयम् ॥
+ आत्मा स्वरूपम् । स्वयं लब्धस्वरूपं चेत् , अनन्तरमन्यमुत्पादयेत् । अतश्चान्ततः क्षणद्वयसिद्धि रनिवार्या ॥
1 रूपोपादानता यदि-च,
त-ख,
मि-ख,
भाव एव-ख: