SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 322 न्यायमञ्जरी [क्षणिकवादे कारणविशेषव्यवस्थापनं दुष्करम् ] अपि च क्षणिकत्वे पदार्थानां, इदमत्रोपादानकारणं, इदं सहकारिकारणमिति विशेषोऽपि दुरवगमः। तथा हि-किमिदमुपादानं नाम? किं स्वसन्तानविनाशेन बीजादिवत् कार्यजन'क'मुपादानम्, उत स्वविशेषसमर्पणेनोत्पादकमिति । यदि पूर्वः पक्षः, परलोकचर्चा चार्वाकवदुपेक्षिता स्यात् । ज्ञानसन्तानविनाशेन ज्ञानान्तरारभ्भप्र. सङगात् ॥ स्वविशेषार्पणपक्षेऽपि सर्वविशेषार्पणं वा स्यात्, कतिपयविशेषार्पणं वा? सर्वविशेषार्पणे निर्विकल्प ज्ञानं सविकल्पक स्य नोपादानकारण स्यात्।। [क्षणिकवादे हेतुदर्शनं व्याप्तिस्मारकं न स्यात् ] लिङगदर्शनजन्या च प्रतिबन्धस्मृतिः कथम् । .. कथं वा रसविज्ञानं रूपज्ञानादनन्तरम् ॥ सन्तान भूयस्त्वाद्भविष्यतीति चेत्-न-एकप्रमात्रधीनप्रतिसन्धानो पनिबन्धनव्यवहारप्रतिबन्धविप्लवप्रसङगात् । नित्यमेकमात्मानमन्तरेण सन्तानकतायामपि तावदसौ व्यवहारो नावकल्पते। . किमुतैकत्रव देवदत्तसन्तानभूयस्त्वे सतीति ॥ * आत्मस्थानापन्नस्य नाशाङ्गीकारात् ॥ + निर्विशेषण हि ज्ञानं निर्विकल्पकम् । तथा च निर्विकल्पापेक्षयाऽतिरिक्तविषयकत्वं न स्यात् ॥ भूयस्त्वम-एकोपादानकानेकविज्ञानपरम्परारूपम् ॥
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy