SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ 321 सप्तममाह्निकम् यते? 'चित्रेण चित्रमुत्पादित मिति सर्वं रूपं स्यात्। सर्वो वा रसः । यद्वा न रूपं, न रसः, अन्यदेव किचद्वस्त्वन्तरं तत् स्यात् ।। [कारणेषु वैलक्षण्यमपि तन्मते दुर्वचम् ] अथोच्यते-यद्यपि रूपरसादिसामग्री तत्सामनया एव जनिका*, तथापि क्वचित् किंचिदुपादानकारणं, इतरत्सहकारि कारणम्। तत्र रूपक्षणनिष्पत्तौ रूपस्योपादानकारणत्वात् इतरेषां च सहकारिकारणत्वात् न पदार्थसङकर इति–तदयुक्तम्-सर्वथा कारणत्वानपायात् ॥ [अस्मिन् पक्षे स्थैर्यापत्तिः] अपि च येन स्वरूपेण रूपस्य रूपं प्रत्युपादानकारणता, तेनैव यदि रसं प्रति सहकारिकारणता तदा पुनरपि रूपरसयोरविशेषः। अथान्येन रूपेण रूपस्य रूपोपादानता, अन्येन च रससहकारितेति, तहि स्वभाव भेदान्नानात्वम् , नानत्वे च स्थैर्यम् , असत्त्वं वेत्युक्तम् अथ नास्त्यनयोः किंचिद्विरुद्धत्वं स्वभावयोः । कथं बौद्धगृहे जातस्त्वमेवमभिभाषसे ॥ भावानां परस्परपरिहारव्यवस्थितरुप त्वाद'स्त्येवैषां लाक्षणिको विरोधः || * न तु कार्यस्येति शेषः। अतश्च कार्ये सांकार्य नापादयितुं शक्यमित्य.भिमानः॥ करणाकरणादिविरुद्धधर्मयोगाद्धि क्षणिकत्वं साध्यते ॥ * लाक्षणिक:-तत्तदसाधारणधर्मविशेषकृतः ॥ __1 चि-ख, 2 स्वरू-च, त्वम-ख. 21
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy