SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 320 न्यायमञ्जरी प्रतिभासे स्थैर्यप्रसङगात् , एकसामग्रयधीनत्वपक्षस्य चासम्भवात् । सम्भवेऽवि वा ग्राह्यनियमनिमित्ताभावादिति। [बहुभ्यो बहुसंभवदूषणम् ] अथोच्यते-किमनभ्युपगतपक्षोपमर्दनेन । 'ब'हभ्यो बहुसंभव इत्येष एव नः पक्षः। सन्तानवृत्त्या वर्तमाना पूर्वसामग्री सरूपामुत्तरसामग्रीमारभते। विजातीयकारणानुप्रवेशे तु विरूपामिति ॥ अथ केयं सामग्री नाम ? न 'समग्रेभ्यो भिन्ना, पृथगनुपलम्भात् । अव्यतिरेके तु समग्र एव सामग्री। तत्र पूर्वसमुदायेन उत्तरसमुदायारम्भ तदन्तर्गतं समुदायिनमे कमेक' एवोत्पादयेत् , एकं वा सर्वे संभूयेति ॥ तत्र आद्ये पक्षे सैवेयमेकस्मादेकोत्पत्तिरुक्ता स्यात् । सा च . प्रतिषिद्धा ।। [ कार्यसांकर्यप्रसंगस्तन्मते] अथक क समुदायिनिष्पत्तौ सर्वसमुदायिनां व्यापारः-स तु क्रमेण वा, यैगपद्येन वा ? तत्र क्रमपक्षे क्षणिकत्वहानिः । ये हि तत्र पंचषास्स. मुदायिनः क्षणाः वर्तन्ते, ते एक तमुत्पाद्य पुनरपरमारभेरन्, पुनरन्य. मिति तावत्कालप्रतीक्षणादक्षणिकत्वम् ॥ अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते, तर्हि 'निकुरुम्बरूपमेव कार्यं नि'कुरुम्बरूपादेव कारणादुत्पन्न मिति, कारणविवेकनियमाभावात रूपरसादिप्रविभागो न स्यात्। इदं रूपं, एष रसः इति कथं निश्ची * तस्यानुपदमेव दूषितत्वात् ।। * क्षणिकवादे नियामकत्वस्य दुर्वचत्वात् ॥ 1 न ब-ख, कं-ख, कफल-ख. नि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy