SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 344 न्यायमञ्जरी [क्षणिकवादे कृतहानादिरनिवार्या ] कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्यचित् । कार्यकारणयोर्भेदात् कार्पासकुसुमादिवत् ॥ अन्यत्रैव हि कर्म स्यात् अन्यत्रैव च तत्फलम्। न च सन्तानभोगाय कश्चित्कर्मानुतिष्ठति ॥ फलमस्मान्ममैव म्यात इति सर्वः प्रवर्तते । सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः ।। न तत्प्रसाधने तेषां काचिद्गमनिकाऽस्ति वा॥ [ज्ञानसन्तानस्यांविच्छेदोऽपि दुर्वचः ] गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् । ज्ञानत्वादित्ययं हेतुः अप्रयोजको इष्यते ॥ मूर्छाद्यनन्तरोद्भूतज्ञानश्च व्यभिचार्यताम् मूर्छितस्यापि विज्ञानमस्तीत्येतत्तत्तु 'कैतव'म् ॥ न ह्यर्थावगतेरन्यद्रूपं ज्ञानस्य किं चन । मूर्छादिषु कुतस्तत्स्यात् कुतो वा *कललादिषु ।। कललादिदशायां वा यदि विज्ञानमिष्यते । मातापितृस्थयोरस्तु शुक्रशोणितयोरपि । ततश्चैकत्र संताने 'चेतन द्वयमापतेत्। चेतनानां बहुत्वं वा दम्पत्योर्बहुपुत्रयोः॥ * अन्यथा घटादीनामपि तथैवानादित्वं स्यात् ॥ * कललं-गर्भपिण्डावस्थाभेदः॥ 1 कौतुक-ख, चैतन्य-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy