SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 318 न्यायमञ्जरी क्षणिकस्य क्रमः कीदृग्युपत्करणे 'पु'नः। एकवस्तु क्षण स्यापि रूपभेदः प्रसज्यते ॥ कार्याण्यकेन रूपेण भिन्नानि जनयेत्कथम् । रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ॥ [क्षणिकवादस्य दुर्वचत्वम् ] स्थिते च वस्तुसद्धावे* क्षणिकत्वं परीक्ष्यते । तदसत्त्वे तु तच्चिन्ता व्योम्नि रोमन्थकेलिवत् ।। ज्ञाने क्षणिकचिन्ता चेत् किं तस्यापि पराकृतौ । वहन्त्येतानि शास्त्राणि ज्ञेयाभावे च तत्कुतः॥ [क्षणिकवादे कार्यानुपपत्तिा] अपि च-क्षणिकत्वपक्षे किमेकस्मादेकोत्पादः ? , उत बहभ्य एकोत्पत्तिः ? अथैकस्मादनेकनिष्पत्तिः ? आहोस्वित् बहुभ्यो बहुसम्भवः ? इति परीक्षणीयम् ॥ न तावदेकस्मादेकोत्पत्तिः, अलौकिकत्वात् । एकस्मादप्यग्नेः भस्म. धमेन्धनविकाराद्यनेक प्रकारकार्यकलापोत्पाददर्शनात् । कार्यसिद्धये च सर्वत्र सहकारिसन्निधापनप्रयत्नदर्शनात् , 'न वै किंचिदेकं जनकम्' इति ग्रन्थविरोधाच्च ॥ [ एकस्मात्कारणादनेककार्यासंभवः ] एतेन तृतीयः पक्षः निरस्तः एकस्मादनेकोत्पत्तिरिति। एकश्च नक जनयत् क्रमेण जनयत् , युगपद्वा? न क्रमेण, स्थैर्यप्रसङगात् ॥ ___* बाह्यार्थशून्यवादिनः किल ते ॥ 1 षु--ख, क्रम-ख, ३ कार्यकालो-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy