________________
317
सप्तममाह्निकम्
तदेवमुपपन्नेयं गृह्यतां क्षणभङगिता। त्यज्यतां दीर्घसंस्कारकारणं स्थिरताग्रहः ॥
__ [क्षणभङ्गनिरासोपक्रमः] अत्राभिधीयते नैव प्रमाणद्वयमप्यदः । भावानां क्षणभङगित्वं उपपादयितुं क्षमम् ॥
[ सत्त्वं नार्थक्रियाकारित्वम् ] . अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते । तदसत्कूटहेमादि व्यभिचारावधारणात् ॥ किन्त्वबाधितसबुद्धिगम्यता सत्त्वभिष्यते । सदसव्यपदेशस्तु पुत्रादावौपचारिकः ॥ एवं च बाधकाभावपर्येषणपरायणम् । न सत्त्वग्राहकं ज्ञानं स्वतः प्रामाण्यमर्हति ॥ सत्त्वे च संशयोऽप्यस्ति सकलप्राणिसाक्षिकः । उपलब्ध्य व्यवस्थात इत्येवं वर्णयिष्यते ॥
. [क्षणिकस्यार्थक्रियाकारित्वासंभवः] अर्थक्रियासमर्थत्वं त्वदुक्तं सत्त्वमस्तु वा। तदपि व्याप्तिशून्यत्वान्न हेतुर्गन्धवत्त्ववत् ॥ क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपि हि । क्रमेण युगपद्वाऽपि न कार्यकरणक्षमः ॥
* सत्यहेमकूटहेमयोरुभयोरपि एकरूपज्ञानजनकत्वात् सत्त्वं स्यात् (p.300) ॥
1 ब्धि
-ख,
घ.