SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 316 भ्यायमञ्जरी नास्तित्वम्-मैवम् स्वदभिमते मध्येऽपि दृश्यस्यैव *घटस्यानुपलम्भ इति तदाऽप्यस्य नास्तित्वमेव ॥ अथापि मध्ये सर्वेषां न घटानुपलम्भन म् । तद्वत्कपालकालेऽपि सर्वेषामिति का प्रमा ।। [अनुभवस्सर्वेषां नैकरूप: ] यदहं न वेद्मि, तत् परोऽपि न वेदेति चेत् ; तहि मध्येऽपि घटं सर्व · .. एव न पश्येयुरिति नास्त्येवासौ कपालीभूतघटवत् । अपि च यदि यत्त्वं न जानासि तदन्योऽपि न मन्यते । स्वजायाजघनस्पर्शसुखमप्येष मा ग्रहीत् ॥ यदि वा बुध्यसे यत्त्वं तदन्योऽप्यधिगच्छति । 'त्वज्जा याजघनस्पर्शसुखमप्यधिगच्छतु ॥ तदलं ते परग्रहवृत्तान्तचिन्तया। यत् पश्यसि तदस्तीति जानीहि यन्न पश्यसि तन्नास्तीति विद्धि । एवमनपलम्भ एव भावानां विनाश इति न तस्य मुद्गरादिकार्यत्वम्। अतोऽनुमानमपि न स्थैर्यसाधकम्। तस्मा० द्यथोक्तक्रमेण प्रत्यक्षमेव क्षणिकपदार्थपरिच्छेदीति स्थितम् ॥ [ क्षणिकवादे दोषोद्धारः] स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृताः । क्षणिकत्वेऽपि कथिताः कार्यकारणभावतः ॥ * पूर्वापरेति शेषः ।। + यदि न मन्यते—इत्यन्वयः। भवता ज्ञातमपि अन्यो जानीयात् । भवता ज्ञातमपि अन्यः न जानीयाच्च ।। न-ख, ते-ख, स्वजा-स्त्र. .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy