SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सप्तममाहिकम 315 तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः । वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते ॥ तेन बुद्धेस्थिरत्वेऽपि स्थयेमर्थस्य दुर्वचम् । न त्वनन्तरया नीत्या *तस्या अपि चिरं स्थिंतिः ॥ साऽपि हि स्वसंवेद्य'त्वात् एकक्षणपरीतैव प्रकाशत इति । तस्मात् क्षणिकग्राहि प्रत्यक्षमिति सिद्धम् ॥ [ क्षणिकवाद प्रत्यनुमान न प्रतिकूलम् ] ननु स्थैर्य पदार्थानामनुमानात्प्रतीयते । . अन्वयव्यतिरेकाभ्यां मुद्गरादिविनाशकः ॥ निश्चीयते घटादीनां तेन पूर्व तदागमात् । विनाशरहितत्वेन सिद्धत्येषामवस्थितिः ।। न–अनुपलम्भव्यतिरिक्तस्य हेतुमतः विनाशस्यानुपलब्धेः । उपलम्भ एवास्तित्वं भावानाम् , अनुपलम्भश्च नास्तित्वम् । न च घटानुपलब्धिः मुद्गरादिकार्या, ततः प्रागपि भावात् ॥ [ घटकालेऽपि घटानुपलंभः ] नन दृश्यानुपलब्धः असत्त्वनिश्चयः। स च कपालकाल एव घटस्यावकल्पते। मध्ये त्वदर्शनं अन्यथाऽपि स्यादिति नादर्शनमात्रमेव * तस्याः-बुद्धेः चिरं स्थितिरपि न इत्यन्वयः॥ + तदागमात्-मुद्रादिनिपातात् ॥ * अनुपदमेव विनाशस्य हेतुज न्यत्वनिरासात् ॥ ६ अन्यथा-देशान्तरनयनादिना, लोकायभावेन वा ।। द्यमान-ज, पत्ते-ख, ३ तु-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy