SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 313 सप्तममाटिकम् न ह्यस्ति कालावयवी* नानाक्षणगणात्मकः । वर्तमानक्षणो दीर्घः इति बालिशभाषितम् ।। क्षणसमुदायात्मकत्वे तु नानारूपत्वमेव तस्य भवेत्। अतीताना गतक्षणा'नुप्रवेशात्। तस्मादेकक्षणो वर्तमानः, संचात्यन्तमल्पीयानित्येवमेकक्षगपरीतार्थदशि चाक्षुषं ततः पूर्वमूवं वा न पदार्थसत्तां गृह्णातीति क्षणिका एव भावाः ॥ [प्रत्यक्षेण क्षणिकत्वग्रहणोपपादनम् ] ननु च वर्तमानक्षणात् पूर्वमूवं वा तदस्तित्ववत् नास्तित्व. मपि न गृहीतमेवेति कथं क्षणिकत्वम् । क एवमाह ? न गृहीतं नास्तित्वम् ? अनुपलब्धेरे व नास्तित्व. व्यवहारात्। उपलम्भो हि भावानां सत्ता, अनुपल म्भश्च नास्तित्वम् । दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम् । तस्मात् क्षणान्तरे तदनुपलभ्भात् नास्तित्वमेवेत्येवं क्षणिकत्वग्राहि प्रत्यक्षमिति स्थितम् ।। [प्रत्यभिज्ञाया विततकालाविषयकत्वम् ] ननु च प्रत्यभिज्ञातो दीर्घकालत्वनिश्चयः । किमद्यापि न मुक्तोऽसि तत्प्रामाण्यकुतृष्णया ।। परीक्षितं हि तस्याः स्वरूपं कार्य च कारणम् । न शक्नोत्येव सा स्थैर्य उपपादयितुं ध्रुवम् ॥ न पूर्व नोत्तरं ज्ञानं ग्राहि कालान्तरस्थितेः । तदिदं बोध्यमानोऽपि रागान्धो नावबुध्यसे ।। * निरवयवद्रव्यं किल काल'। 1 त्पू-ख. म्भाच-ख. त्वान्ना ख, कारणं च-ख, ३ब्ध ए-ख, वेणो-च, भावेन्ना-ख, ते-ख. .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy