________________
311
प्तममाह्निकम्
[प्रत्यभिज्ञायाः सादृश्यादिविषयकत्वम् ] अपि च लूनपुनर्जातकेशनखादिषु सादृश्यात्' दृश्यमाना प्रत्यभिज्ञा स्तम्भादिष्वपि तद्वदेव न स्थिरतामुपपादयेत् । तत्र बाधकयोगादिति चेत्-इहाप्युक्त एव बाधकः परस्परविरोधिभूतादिकालसमावेशस्यैकत्र र्घटत्वादिति। तस्मात् प्रत्यभिज्ञाप्रत्ययस्य बाधकस्याभावात् सिद्धमानुमानिकं भावानां क्षणिकत्वम् ॥
[क्षणिकत्वस्य प्रत्यक्षगम्यत्वपक्षः ] अपरे पुनः प्रत्यक्षगम्यमेव क्षणिकत्वमाचक्षते ॥
नातीतानागतौ कालौ विचारयति चाक्षुषम् ।
वर्तमानः क्षणश्चैकः इति तनिष्ठमेव तत् ॥ यदि च वर्तमानताव्यतिरिक्तग्राहि प्रत्यक्षमिष्यते तद्वक्तव्यम-*कि पूर्व विज्ञानमनागतकालावच्छिन्नपदार्थग्रहणनिपुणम्, उत उत्तर विज्ञान मतोतकालालिङगितभावाकलनकुशलमिति ।।
तत्र आद्यविज्ञानसमुपजननसमये तत्क्षणातिरिक्तभाविकालासन्निधानात् न तेन तद्ग्रहणम् , अनागतग्रहणे वा कथमागामिजन्मग्रहणं स्यात् ?
उत्तरविज्ञानप्रसवसमयेऽपि भूतकालस्य भूतत्वादेव न सन्निधानम् , असन्निहितभूतकालग्रहणे वा पूर्वजन्मग्रहणप्रसङगः* ॥
* कालद्वयविशिष्टवस्तुग्रहणे स्थिरत्वं सिद्धयति । तन्न संभवति। पूर्वकाल. विषयकस्योत्तरकालाविषयकत्वात् । उत्तरकालविषयकस्य पूर्वकालाधिकविषयकत्वात् ।
न चेष्टापत्तिः, ग्रहणस्मरणयोरवैलक्षण्यप्रसंगात् ॥
1 श्य-ख,
ज्ञा-ग,
न स्या-ख.