________________
सप्तममाह्निकम्
309 कार्यमुपलब्धम्। न चेन्द्रियं केवलमीदृशि कार्ये समर्थम्। यथासन्निहिताकारमात्रग्राह्यविषय कमिन्द्रियं प्रत्यभिज्ञानमातनोतीति विस्मयः । तस्मात् द्वे एते ज्ञाने, स इति स्मरणम्, अयमित्यनुभवः ॥
[प्रत्यभिज्ञायाः ज्ञानद्वयरूपत्वम् ] स्मृतिः स्मर्तव्यविषया ग्रहणं ग्राह्यगोचरम् । न तदैक्यपरामशि दृश्यते प्रत्ययान्तरम् ॥ यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती । न तुल्यविषये तद्वत एते अपि भविष्यतः॥
[प्रत्यभिज्ञाया एकज्ञानत्वेऽपि नेष्टसिद्धिः ] यद्वा भवतु नामेदं एकमेव हि वेदनम्। तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥ अतीतकालयुक्तं चेत् स्मरणान्न विशिष्यते। अनागतविशिष्टं चेत् सङकल्पप्रायमेव तत् ॥ वर्तमानकनिष्ठं चेत् स्थिरत्वं तहि सुस्थितम्* ! कालत्रयपरीतं चेत् विरोधात्तत्तु दुर्लभम् ॥
परस्परपरित्यागव्यवस्थितनिजात्मनाम् । . . . एकत्र न समावेशः कथं चिदुपपद्यते ॥
* इयं परिहासोक्तिः। वर्तमानमात्रविषयकत्वे क्षणिकत्वमेव हि सिद्धयेत् ॥
चार-ख.