________________
308
न्यायमञ्जरी यदि हि व्याप्तिशैथिल्यं सिद्धं कि प्रत्यभिज्ञया । __ अथ न व्याप्तिशैथिल्यं सिद्धं कि प्रत्यभिज्ञया* ॥ न चेत्थं प्रत्यभिजैव व्याप्तिविप्लवकारणम्, इतरेतराश्रयप्रसङगात् । व्याप्तिविप्लवेनानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति, तस्यां च प्रमाणीभूतायां व्याप्तिवैधुर्यादनुमा ना'प्रामाण्यम् ॥
अनुमानप्रामाण्येऽपि समानो दोष इति चेत-न-तस्य प्रतिबन्ध- .. महिम्नैव प्रामाण्यसिद्धः । न हि तस्य प्रत्यभिज्ञादौर्बल्यनिबन्धन प्रामाण्यम् ॥
- [प्रत्यभिज्ञास्वरूपविमर्शः ] अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्ति अत्रभवन्तः। किं स एवायं स्तम्भः' इत्येकं ज्ञानम् , उत द्वे एते स्मृत्यनुभवज्ञाने?
यद्येकं, तदस्य कारणं वाच्यम , यत उत्पद्यते। नेन्द्रियम्, 'सः' इत्यस्मिन्नंशे तस्यासामर्थ्यात्। न च संस्कारः, तस्यापि 'अयं' इत्यंशे कौशलाभावात् ॥
उभाभ्यां न च सम्भूय तद्ज्ञानमुपजन्य ते ।
पृथक्पृथक स्वकार्ये हि नितिं कौशलं तयोः ॥ संस्कारस्य स्मृतिरेव कार्यम् , इन्द्रियस्यानुभव एव। सम्भूय तु न ताभ्यामेकं कार्यमारभ्यते । न हि मृत्पिण्डतन्तुनिर्वत्येमेकं घटपटरूप
* पक्षद्वयेऽपि प्रत्यभिज्ञाया अप्रमाणत्वात् ॥ +दोषः-अन्योन्याश्रयः॥ * स्मृतित्वानुभवत्वयोः कदापि सामानाधिकरण्यासंभवात् ।। .
1 नच,
स्तब-क, कुम्भः-ख,
३ धार्य-क, ज.