________________
सप्तममाह्निकम्
307 अपि च यदाऽपि तेन नष्टव्यं, तदाऽप्यस्य न स्वरूपादतिरिक्तः कश्चन विनाशहेतुरवतरति। तच्च स्वरूपं आयेऽपि क्षणे तस्य तादृशमेवेति तदैव वा नश्येत् , न कदाचिद्वा॥
अप'मृत्योरपक्रान्तः तस्य चेत्प्रथमः क्षणः ।
अविनाशिस्वभावत्वात् आस्तां युगशतान्यपि ॥ न चैवमभ्युपगम्यते। तस्मात् *आत्मलाभाविनाभावी भावानां विनाश इति सिद्धः क्षणभङगः ॥
. [ प्रत्यभिज्ञायाः क्षणिकवादप्रतिकूलत्वनिरासः ] यदपि क्षणभङगसाधकस्य पदार्थस्थैर्यावसायि प्रत्यभिज्ञानविज्ञानं अनुमानस्य बाधकमभिधीयते तदपि न पेशलम-अशिथिलप्रतिबन्धहेतौ बाधकस्य निरवकाशत्वात् । उक्तं हि-बाधाविनाभावयोविरोधान्नैकत्र समावेशः' इति ॥ .
'अनुष्णस्तेजस्वी, कृतकत्वात्' इत्यत्रापि प्रतिबन्धवैधुर्यमेव साध्यसिद्धि निरुणद्धि, नाध्यक्षबाध्यत्वम् ॥ अथवा किमनेन निर्बन्धेन ?
अग्निशैत्यानुमानादौ युक्तं प्रत्यक्षबाधनम् । तस्य ह्यनन्यथासिद्धिः, इह त्वेतन्न युज्यते ॥
- [प्रत्यभिज्ञायाः अन्यथासिद्धत्वम् ] प्रत्यभिज्ञायाः क्षणभङगपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारितमतीनां उप पद्य'मानत्वात् । एवंच सति
* वस्तुनः स्वरूपलाभे, तदविनाभावी विनाशः ॥
1 पाद्यपे-ख,
३ थ-ख,
३ नं-ख,
लभ्य-ख.