SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 306 न्यायमञ्जरी कत्वमिदमभ्युपगतमिति यश एव केवलं सौगताः पीतवन्तः। तस्मात् सिद्धं यत् कारकं, यच्च सत्, तत् क्षणिकमिति॥ [ध्वंसस्य हेत्वनपेक्षत्ववादः] अतश्च-क्षणभङिगनो भावाः, प्रलयं प्रति हेत्वनपेक्षत्वात्। भावो हि स्वतो नश्वरात्मा भवेत् , तद्विपरीतो वा ? विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः। अनश्वरस्वभावे हि कृतं प्रलयहेतुभिः* ॥ क्व तहि मुद्गरादीनां व्यापारः ? विजातीयसन्ततिजन्मनीति ब्रूमः। . अभावस्तु तज्जन्यो न संभवत्येव, प्रमाणविरुद्धत्वात्। भावो हि. स्वरूपेण न भवति, न त्वभावो'sप्यस्य भवतीति । · स्वरूपं 'तु तस्य . भवनात्मकं चेत्, सर्वदैव भवेदेव, न न भवेत्। अभवनात्मकं तु तदेव न भवेत् , परापेक्षाया अभावात्। न हि मुद्गरादिकारणान्तरः सापेक्षः कुम्भादेविनाशो भवितुमर्हति ; उत्पत्ताविव नाशेऽपि समर्था. समर्थभिन्नाभिन्नोपकारकारि सहकार्यादिविकल्पकलापानपायात् ॥ [विनाशस्य विलम्बासहत्वम् ] . , ___ अथ कतिपयक्षणव्यवहितविनाशस्वभावो भावः इष्यते -- तहि प्राक्तननयेन कदाचिदपि न विनश्यत् ।विनाशसमयेऽपि तत्स्वभावानपायेन पुनः कतिपयक्षणापेक्षणप्रसङगात् ॥ * एतेन नाशस्य कारणापेक्षा निराकृता ॥ तज्जन्यः-मुद्रादिजन्यः। भावस्य स्वरूपच्युतिः अभावः। तथा चात्रैव मुद्रादिव्यापारः। न त्वभावोत्पत्तौ ॥ *तस्य-अभावस्य ॥ 1 फि--ख, भ-ख ' कारि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy