________________
305
सप्तममाह्निकम् रोधादितरव्यावृत्तिः-नैषदोषः-पृथगुभयानुपलम्भेऽपि सत्त्व'सि' द्धचैव नित्यत्वनिराससिद्धेः॥
[ सत्त्वज्ञानस्य क्षणिकत्वे प्रमाणत्वम् ] कथमन्यषिया बुद्धिः अन्यमुदस्यति-उच्यते
द्विचन्द्रदर्शनस्यैकशशभृद्विम्बवेदिनी । धीरतद्विषयत्वेऽपि यथा मिथ्यात्वकारणम् ॥ तथा स्थैर्यासमाविष्टा सामर्थ्यग्राहिणी मतिः । स्थिरत्वाविषयत्वेऽपि तद्व्यवच्छेदकारिणी || सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ।
तयोविरोधो युक्त्याऽपि वक्तुं न हि न शक्यते ॥ तस्मात् सत्त्वप्रतीतिरेव नित्यत्वनिवृत्तिः, सैव च क्षणिकत्वव्याप्तिरिति सिद्धं सत्त्वात् क्षणिकत्वम् ॥
[कारकत्वमेव क्षणिकत्वपर्यवसायि] अपि च सर्वदा कार्यानुत्पादात् कारकावस्था नूनमेकक्षणस्थायिनी भावानामुपगन्तव्या। व्यापारावेशवशेन वा *श्रोत्रियादिपक्षे, सहकार्यादिसन्निधना सादनेन वा नैयायिकपक्षे । कारकत्वं नाम वस्तुनः रूपं एकक्षणवृत्त्येव, कार्योत्पत्त्यैव तत्कल्पनात्। ततः पूर्वमुत्तरकालं वा कारकत्वयोगात् । कारकत्वमेव परमार्थसत् , अकारकस्य ज्ञानजनकत्वाभावात् अस्तित्वमपि दुर्वचम् । अतश्च सर्ववादिभिरेव प्रायेण क्षणि
___* श्रोत्रियपक्षे-अतिरिक्तशक्त्यङ्गीकारपक्षे ॥
1 बु-ख,
त-ख,
३ पा-ख.