________________
304
न्यायमञ्जरी सुपरिनिश्चितत्वात्। सैव च विपक्षाच्यावृत्तिः। स एव चास्य हेतोः स्वसाध्येनान्वयः। न ह्येवं सम्भवति, नित्येभ्यश्च व्यावृत्तं सत्त्वं, क्षणिकेषु च न निविष्टमिति; तृतीयराश्यभावात् । निराश्रयत्वानुपपत्तेश्च ॥ ___ तदेवं क्वचिमिणि व्याप्तौ गृहीताय-यदि स एव कदाचित् परं प्रति दृष्टान्तीक्रियते, त'दैवं नाम भवतु, को दोष इति ॥ .
[क्षणिकत्वानुमानेऽनवस्थापरिहारः] . ननु व्यापकानुपलब्धिः अनुमानम्। अनुमानेन चानुमानस्य व्याप्तिग्रहणेऽनवस्था ॥
नानवस्था, तावत्येव पर्यवसानात् । न हि व्यापकानुपलब्धेः अनुमानान्तरात् व्याप्तिनिश्चयः, किन्तु प्रत्यक्षविकल्पादेव। तदनया व्याप्तिनिश्चयात् सिद्धमेतत्-यत् सत्, तत् क्षणिकमिति ॥
[क्षणिकत्वसाधकव्याप्तिग्रहणे पक्षान्तरम् ] ' अन्ये तु 'रीत्यन्तरेण व्याप्तिनिश्चयमाचक्षते। विरुद्धयोरेकपरिच्छेदेऽन्यतरनिवृत्तिरवश्यंभाविनी, विरुद्धत्वादेव। विरुद्धे च *सत्त्वनित्यत्वे पूर्वोक्तयैव नीत्या। सत्त्वं च विस्पष्टमुपलभ्यते भावानाम्इति तदुपलम्भान्नित्यत्वनिवृत्तिः। नित्यत्वनिवृत्ति रेव क्षणिकत्व. निश्चयः, प्रकारान्तराभावात् ॥
[नित्यत्वाग्रहणेऽपि व्यावृत्तिसिद्धिः ] ननु ! शीतोष्णयोः पृथगुपलम्भात् विरोधनिश्चये युक्त एकग्रहणे द्वितीयव्युदासः। इह तु सत्त्वमेवोपलभ्यते, न नित्यत्वमिति कथं तद्वि
* सत्त्वनित्यत्वे अर्थक्रियाकारित्वं, स्थिरत्वं च ।।
1 दे-च,
नी-ख,
३त्ते-ख.