________________
सप्तममाह्निकम्
303 [ कारणे सामर्थ्य दुरुपपादम् ] अथ समर्थमेव कारणम्। तस्य त्वयं स्वभावः, यत् सहसैव कार्यन करोति, कतिपयक्षणव्यवधाने तु 'कार्यं करोतीति। यद्येवं न कदा. चित् कार्योत्पादः स्यात्। कार्योत्पादसमयेऽपि कतिपयक्षणव्यवहित. कार्यजननस्वभावानपयात् पुनः कतिपयक्षणा वेक्षणं स्यात्। तेष्वपि कतिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति क'दा' नाम-कार्य जनयेत् । तदेवमादिदोषोपहतत्वात् न क्रमेण भावानामर्थक्रियासामर्थ्यम् ॥
[ योगपद्यपक्षदूषणम् ] नापि युगपत् ; लोके तथा व्यवहारादर्शनात् । युगपत् कृत कार्य स्यापि स्थिरस्य पुनरकरणे हेत्वभावः । पुनश्च कुर्वलपि भावः कार्य न तदेव कुर्यात् , कृतस्य करणायोगात् । कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रमयोगपद्ये नित्येभ्यः पदार्थेभ्यः निवर्तेते। ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदावेव निवर्तते । तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात क्षणिकेष्वेव निविशते ॥
[सत्त्वक्षणिकत्वयोाप्तिग्रहणम् ] अतो यद्यपि कार्यहेतौ धूमाग्न्योरिव, स्वभावहेतावपि वा क्वचित् वृक्षत्वशिशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्मान्तरे न . वृत्तम्-तथापि साध्यमिण्येव व्याप्तिग्रहणमुपपत्स्यते, विपक्षव्यावृत्तेः
* वस्तुस्वरूपस्य तदानीमपि सत्वात् ।। + साध्यमिणि-साध्यरूपर्मिणि ॥
३ द्यवे-ख,
30-ख,
क-ख,
__
1 क-ख, यै-ग, च.