________________
302
न्यायमञ्जरी ___किंच किंचित्करो वा सहकारी स्यात्, अकिंचित्करो वा? अकिंचि करपक्षे सर्वः सर्वस्य सर्वत्र कार्ये साचिव्यमुपगच्छेत । किंचित्करश्चेत् वक्तव्यं, किं करोतीति ।।
उपकारमिति चेत्, स उपक्रियमाणात भिन्नः, अभिन्नो वा? अभिन्न श्चेत्, स एव कृतः स्यात् । भेदे तस्य किमायातम् , यदसौ न पूर्ववदास्ते ॥
कार्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः। न कार्याद्भिन्नः, . अनुपलम्भात् । द्वय करणाभावाच्च । कार्यादव्यतिरेके तूपकारे सहकारिणा क्रियमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम् ||
[एकैकस्य कारकत्वासंभवः] ननु च एक एव भावः कारकः। स एव हि समर्थः। तदितरपदार्थसन्निधानं तु स्वहेतुवशादुपनीतमिति नोपालभ्भमर्हति-नैतद्युक्तम् -एकस्य कदाचिदपि कारकत्वानुपलब्धेः तत्सामर्थ्यस्य दुरधिगमत्वात्। एवं ह्यसौ समर्थ उच्यते, यद्येकः कदाचित् कार्यमुत्पादयन दृश्येत, न तु विस्मृत्यापि दृश्यते ॥
___ अथ कार्यस्यायं स्वभावः, यदेकस्मानोत्पद्यते, कारणं तु शक्तमेवेति-तदप्ययुक्तम्-कार्यस्वभावपराधीनत्वेन . कारणस्य सामर्थ्य विरहप्रसङगात् । एवं ह्यसौ समर्थः कथ्येत, यदि कार्यस्वभावमनादृत्य स्वतन्त्र एक एव प्रसह्य कार्य जनयेत्। न चैवं दृश्यते इति यत्किचिदेतत् ।।
* उपकारस्य वस्तुस्वरूपत्वापत्येति हेतुः ।। + कार्य-प्रकृतं फलम् ॥ , 'कार्यस्यायं स्वभावः' इति खलूक्तम् ॥
1 स-ख,
2 का-ख: