SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 301 [नित्यपदार्थस्यासंभवः] कथं पुननित्येषु पदार्थेषु सत्त्वव्यापकयोः क्रमयोगपद्ययोरनुपलम्भः ? उच्यते-नित्यो हि भावः क्रमेण वा कार्यं कुर्यात् , यौगपद्येन वा ? पर. स्पर परिहार' व्यवस्थितात्मनां तृतीयप्रकारानुपपत्तेः ॥ [क्रमशः कार्योत्पत्तिपक्षदूषणम् ] ___ न तावत् क्रमेण, स हि समर्थो वा स्यात् ? असमर्थो वा स्यात् । समर्थश्चेत् कि क्रमेण ? समर्थस्य कालक्षेपायोगात्। असमर्थस्तु असमर्थत्वादेव न करोति किचिदिति तस्यापि कि क्रमेण ? [सहकारिसान्निध्याद्यनुपपत्तिः] सहकार्यपेक्षया करोतीति चेत्-न-असमर्थस्य सहकारिणाऽपि सामर्थ्याधानानुपपत्तेः। समर्थस्य स्वत एव सामर्थ्य सति सहकारि वैयर्थ्यात् ॥ ___ सहकारिसन्निधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात् , पररूपेण वा? स्वरूपस्य च प्रागपि भावात् , तस्य च *कारकत्वात , किं सह— कारिणा। पररूपेण कर्तृत्वे-पूर्वरूपपरित्यागात , तद्रूपान्तरापत्तेश्च : क्षणिकत्वमा पद्यते ॥ [ सहकारित्वमपि दुर्वचम् ] एवं सहकार्यपि समर्थासमर्थतया विकल्पनीयः। स्वतोऽस्य सामर्थ्य • कि परोपकारानुसरणदैन्येन ? असमर्थस्तु सचिवः किमागत्यापि तपस्वी करिष्यति' ॥ ___ * 'समर्थत्वेन' इत्यादिः ॥ रित्वं-ख, रे-खें, 1 विरह-ख, 'क्षे-ख, मुप-ख. क-ख, 'पि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy