SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 300 न्यायमञ्जरी [ सत्वक्षणिकत्वयोः व्याति:] 'यत्तु कथमस्या ग्रहणमिति–'दुच्यते-भावानां हि सत्त्वं 'क्रम - योगपद्याभ्यां व्याप्तम् ॥ नित्येषु च पदार्थेषु* व्यापकानुपलम्भनात् । तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते । न च राशिस्तृतीयोऽस्ति तेन गत्यन्तरक्षयात् । क्षणिकानेव तान् भावान् सत्त्वं समवलम्बते ।। तच्च स्वग्राहकाद्वोधात असन्दिग्धं प्रतीयते । ज्ञानोत्पत्त्यैव तद्धेतोः असामर्थे पराकृते ॥ असमर्थात्समुत्पादो दृश्यते न हि कस्यचित् । शक्ताशक्तप्रसूतत्वे न तद्वो धोऽस्ति संशयः ।। अत एव च तज्ज्ञानं प्रमाणं जगदुस्सदा।। स्वरूपे शक्तिजत्वे तु संशयादेरसंभवात् ।। किमिदं रजतं, उत शुक्तिकेति विशेषांशे संशेरतां नाम प्रमातारः ; न तु सामर्थ्य प्रति दोला काचित संभवति-'किमिदं ज्ञानं समर्थन जनितम् ? उत तदितरेण ?' इति। असमर्थस्य जनकत्वानुपपत्तेः । व्यापकानुपलम्भस्यापि व्याप्तिग्राहिणः स्वत एव प्रामाण्यम् । संशय. विपर्ययोस्तत्राप्यभावात् ॥ * व्यापकं-अर्थक्रियाकारित्वम् ॥ * तृतीयः राशि:-क्रममौगपद्यातिरिक्तः कल्पः ।। * दोला-डोला, संदेहः ॥ क्षण-ख, 3 सक्त-ख, 1 त-ख, 5 ग्रहतः -क. तत्र बो-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy