________________
299 सप्तममाह्निकम
क्षणिकत्वसाधनम् उच्यते-प्रत्यक्षगम्यं क्षणिकत्वं भवति, न भवतीत्येष करिष्यते विचारः । अनुमानं तु संप्रत्येवाभिधीयते-सत्त्वात् क्षणिकाः पदार्था इति। सत्त्वं तावदर्थक्रियाकारित्वमुच्यते। 'यथोक्तम् (प्र वा-1-3-2). 'अर्थक्रियासमर्थं यत् तदेव परमार्थसत्' इति ।
__ [सत्त्वस्वरूप किम् ] सत्प्रत्ययगम्यत्वे हि सत्त्वे, केशोण्डकादेरपि* सत्त्वप्रसङगः। सत्ता सम्बन्धित्वे तु सत्त्वे, सामान्यादीनां तदसम्बन्धादसत्त्वं स्यात्। अर्थक्रियासामर्यसत्त्वानुवर्ती च लौकिको व्यवहारः । सत्यपि पुत्रे तत्कार्यादर्शनात्- 'अपुत्रा वयम्' इति व्यपदिशन्ति लौकिका. । पुत्रादन्यस्मिनपि तत्कार्यकारिणि सति 'सपुत्रा वयम्' इति च ब्रुवते। तस्मादर्थक्रियाकारित्वमेव सत्त्वम् ॥ .
। सत्त्वस्य क्षणिकत्वसाधकत्वम् ।
‘भवत्वेवं, तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्तिग्रहणम् ? कुत्रेति यत् पृच्छसि, यत्र रोचते महाभागाय घटे, पटे वा गृह्यतां व्याप्तिः ॥ .. कि साध्यमिण्येव व्याप्तिग्रहणमुपपद्यते ?
धीमन् ! कोऽत्र प्रमादः: ? न हि देवनिर्मितः कश्चित् साध्यधर्मी नाम। ग्रहीतुं शक्यते चेद्व्याप्तिः, यत्र तत्र सा गृह्यतामिति ।
* तत्रापि किल 'अस्ति' इति प्रतीतिस्समाना ॥
1 यथार्थमर्थ क्रियासमर्थं यत्-ख,
धे-ख.