SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 298 ... न्यायमञ्जरी सता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव । तदुक्तम् 'वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः' इति॥ तस्मादुत्सृज्यतामेषः मूर्धाभिषिक्तः प्रथमो मोहः आत्मग्रहो नाम । तन्निवृत्त्या चात्मीयग्रहोऽपि विरंस्यति 'अहमेव न, कि मम, इति* . तदिदमहंकारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वार मवलम्ब्यताम् ॥ . [ क्षणिकवादोपक्षेपः] तस्य च मार्गः क्षणिकपदार्थनिश्चयः। क्षणिकेषु हि सर्वभावेष निराश्रयेषु ज्ञानस्याप्याश्रयविरहात् कुतस्त्यमांत्मकल्पनमिति ॥ कथं पुनरेषः सकलप्रमाणातीतः क्षणिकपदार्थवादः शक्यते शाक्यरभ्युपगन्तुम् ॥ न खलु क्षणभाङिगत्वे भावानामक्षजा 'मतिः । प्रमाणं, क्षणिकाकारकल्पनोत्पत्यसम्भवात् ।' अथ वाप्यविनाभूतहेतुज्ञानोपपत्तितः । न ग्मिरनुमानस्य विकल्पनियतस्थितेः ॥ स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके । एवं च वंचनामात्रं आशुनाशित्वदेशनाः॥ * उच्यते किल 'अहमेव न किञ्चिच्चेद्भय कस्य भविष्यति' इति । नैरात्म्यदर्शनं-अहमर्थक्षये सति जायमानः अनुभवः ।। - 1 मति:-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy