SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 251 प्रवाहः। एष एव च सन्तान इत्युच्यते। तत्कृतश्चायं अनुसन्धानादि. कार्यनियमः। सन्तानानादित्वात् , तदविच्छेदाच्च परलोकोऽपि न क्लिष्टकल्पनः ॥ [सन्तानसांकर्यनिरासः]. .. यद्यपि सन्तत्यन्तरपतितज्ञानजन्यमपि सन्तत्यन्तरे ज्ञानं *दृश्यते, तथापि न तादृशकार्यकारणभावेन सन्तानव्यवहारः प्रतिसन्धानादिकार्यनिर्वाहो वा ; किन्तु उपादानरूपतद्विशेषनिबन्धन एवैष निर्वहति नियमः। तस्मिन्नैव सति स्वरूप सन्तानविभागोऽवकल्पते ॥ स्मृतिवत्परिहर्तव्यौ कृतनाशाकृतागमौ । तत्सन्तानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥ आह च 'यस्मिन्नव हि सन्ताने आहिता कर्मवासना। फलं तत्रैव बध्नाति कार्पासे रक्तता 'यथा' ॥ यथा यस्मिन्नेव हि कार्पसबीजे वर्णः रक्तताख्यः कृतः, तस्यैव कुसुममपि रक्तम्, नान्यस्येति ; तथा यस्मिन्नेव ज्ञानसन्ताने यादृशी • कर्मवासना, तादृशं फलं तस्मिन्नेव सन्ताने भवति, नान्यस्मिन् ज्ञान ____ इत्यर्थः। तथा च कृतहानाकृताभ्यागमदोषनिरासः ॥ __ [आत्मनः नित्यत्वासंभवः ] नित्यस्त्वात्माऽभ्युपगम्यमानः यदि सुखादिजन्मना विकृतिमनुभवति तदयं 'अनि त्य एव चर्मादिवदुक्तः स्यात्। निविकारत्वे तु सताs * मातापितृवासनायाः पुत्रे संक्रमणम् , गुरोः ज्ञानस्य शिष्ये संक्रमणं च दृश्यते। परन्त्वत्र सहकारित्वमेव, न तूपादानत्वम् ॥ 1 यथा-ख. नि-ख, ३ ध-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy